SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 14 // सूत्रम् 30 ३०समवायः मोहनीय| स्थानादिः लक्षणपापेनाविलं-गडुलमाकुलंवा चेतो यस्य स तथा योऽन्तरायं-व्यवच्छेदं जीवितश्रीभोगानां चेतयते करोति प्रभुत्वादेरसौं महामोहं प्रकारोतीति चतुर्दशं 14 / सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ / सेणावई पसत्थारं, महामोहं पकुव्वई / / सप्पी नागी यथा अण्डउडं अण्डककूटं स्वकीयमण्डकसमूहमित्यर्थः, अण्डस्य वा पुटं-सम्बद्धदलद्वयरूपं हिनस्ति, एवं भर्तारं- पोषयितार यो विहिनस्ति सेनापतिं- राजानं प्रशास्तारं- अमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पञ्चदशं 15 / जे नायगं व रट्ठस्स, नेयारं निगमस्स वा। सेटिं च बहुरवं हंता, महामोहं पकुव्वई। यो नायकं वा- प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा नेतारं प्रवर्तयितारं प्रयोजनेषु निगमस्य- वाणिजकसमूहस्य, कं?- श्रेष्ठिनं श्रीदेवताङ्कितपट्टबद्धम्, किंभूतं?- बहुरवं भूरिशब्दं प्रचुरयशसमित्यर्थः, हत्वा महामोहं प्रकुरुत इति षोडशं 16 / बहुजणस्सणेयारं, दीवं ताणं च पाणिणं / एयारिसं नरं हंता, महामोहं पकुव्वई / / बहुजनस्य पञ्चषादीनां लोकानां नेतारं नायकं द्वीप इव द्वीपः- संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिदृष्टिप्रसराणांशरीरिणां हेयोपादेयवस्तुस्तोमप्रकाशकत्वात् तम्, अत एव त्राणं- आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, नरं प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं 17 / उवट्ठियं पडिविरयं, संजयं सुतवस्सियं / वोक्कम्म धम्मओ भंसे, महामोहं पकुव्वई / / उपस्थितं प्रव्रज्यायां- प्रविव्रजिषुमित्यर्थः, प्रतिविरतं सावधयोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः, संयतं साधंसुतपस्विनंतपांसि कृतवन्तं शोभनं वा तपः श्रितं-. आश्रितं क्वचित् जे भिक्खं जगजीवणं ति पाठः, तत्र जगन्ति- जङ्गमानि अहिंसकत्वेन जीवयतीति जगजीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्युपक्रम्य बलादित्यर्थः, धर्मात्- श्रुतचारित्रलक्षणाद्रंशयति यः स महामोहं प्रकरोतीति अष्टादशं 18 // (r) प्रभ्वादेरसौ (प्र०)। // 94 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy