SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाकं श्रीअभय० वृत्तियुतम् | // 13 // 08 सूत्रम् ३०समवायः मोहनीयस्थानादिः अकुमारभूतः अकुमारब्रह्मचारी सन् यः कश्चित् कुमारभूतोऽहं कुमारब्रह्मचारी अहमिति वदति, अथ च स्त्रीषु गृद्धो- वसकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा वसति आस्ते स महामोह प्रकरोतीत्येकादशं 11 / अबंभयारी जे केई, बंभयारी त हं वए। गद्दहेव्व गवंमज्झे, विस्सरं नयई नदं॥अप्पणो अहिए बाले मायामोसंबहुंभसे। इत्थीविसयगेहीए, महामोहं पकुबई। अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवासेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रपञ्चनाय वदति, तथा य एवमशोभावहंसतामनादेयं भणन् गर्दभ इव गवां मध्ये विस्वरं न वृषभवन्मनोज्ञं नदति-मुञ्चति नदं- नादंशब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारी बालो- मूढो मायामृषां बहु शाठ्यानृतं प्रभूतं भषते, श्वेव निन्दितं भाषते, कया?- स्त्रीविषयगृङ्ख्या हेतुभूतया स. इत्थंभूतो महामोहं प्रकरोतीति द्वादशं 12 / जं निस्सिए उव्वहइ, जससा अहिगमेण वा / तस्स लुब्भइ वित्तम्मि, महामोहं पकुव्वई॥ यं राजानं राजामात्यादिकं वा निश्रित- आश्रित उद्वहते- जीविकालाभेनात्मानं धारयति, कथं?- यशसा तस्य राजादेः सत्कोऽयमिति प्रसिद्ध्या अभिगमनेन वा- सेवया आश्रितराजादेस्तस्य निर्वाहकारणस्य राजादेर्लुभ्यति वित्ते द्रव्ये यः स महामोहं प्रकरोतीति त्रयोदशं 13 / ईसरेण अदुवा गामेण, अणिस्सरे ईसरीकए / तस्स संपयहीयस्स, सिरी अतुलमागया। ईसादोसेण आविटे, कलुसाविलचेयसे ।जे अंतरायंचेएइ, महामोहं पकुव्वई॥ ईश्वरेण प्रभुणा अदुवा अथवा ग्रामेण जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरस्कृतस्य प्रभ्वादिना श्रीः- लक्ष्मीरतुला- असाधारणा आगता- प्राप्ता अतुलं वा यथा भवतीत्येवं श्री: समागता आगतश्रीकश्च प्रभ्वाद्युपकारकविषये ईर्ष्णदोषेणाविष्टो- युक्तः कलुषेण- द्वेषलोभादि0वशक (मु०) 0 परप्रवचनाय (मु०)। 0 मृषा बहुश:-अनृतं प्रभूतं भाषते, यश्चैवं निन्दितं (मु०)। // 9
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy