________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 12 // सूत्रम् 30 30 समवायः मोहनीयस्थानादिः प्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकारोतीति सप्तमं 7 / धंसेइ जो अभूएणं अकम्मं आतकम्मुणा। अदुवा तुममकासि त्ति महामोह पकुव्वई। ध्वंसयति- छायया भ्रंशयति यः पुरुषोऽभूतेन-असद्भूतेन, कं?- अकर्मकं- अविद्यमानदुश्चेष्टितं आत्मकर्मणा- आत्मकृतऋषिघातादिना दुष्टव्यापारेण अदुवा अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवत्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् स महामोहं प्रकरोतीत्यष्टमं 8 / जाणमाणो परिसओ सच्चमोसाणि भासई। अज्झीणझंझे पुरिसे महामोहं पकुव्वई / / जानानः यथा अनृतमेतत्, परिषदः- सभाया बहुजनमध्ये इत्यर्थः, सत्यमृषा-3 किश्चित्सत्यानि बह्वसत्यानि वस्तूनि वाक्यानि वा भाषते अक्षीणझञ्झः अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं 9 / अणायगस्स णयवं दारं तस्सेव धंसिया। विउलं विक्खोभइत्ताणं किच्चाणं पडिबाहिरं / उवगसंतं पि झंपित्ता पडिलोमाहिं ! वग्गूहिं भोगाभोगे वियारेइ महामोहं पकुव्वई। अनायक:- अविद्यमाननायको राजा तस्य नयवान्- नीतिमानमात्यः स तस्यैव राज्ञो दारान् कलत्रं द्वारं वा- अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा?- विपुलं प्रचुरमित्यर्थः, विक्षोभ्य सामन्तादिपरिकरभेदेन संक्षोभ्य नायकं तस्य क्षोभंजनयित्वेत्यर्थः, कृत्वा विधायणमित्यलङ्कारे प्रतिबाह्यअनधिकारिणं दारेभ्योऽर्थागमद्वारेभ्यो वा, दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः १०।तथा उपकसन्तमपि समीपमागच्छन्तमपि, सर्वस्वापहारे कृते प्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा- नष्टवचनावकाशं कृत्वा प्रतिलोमाभिः- तस्य प्रतिकूलाभिर्वाग्भिः-वचनैरेतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः, भोगभोगान् विशिष्टशब्दादीन् विदारयति हरति योऽसौ महामोहं प्रकरोतीति दशमं 10 / अकुमारभूए जे केइ कुमारभूएत्तऽहं वए। इत्थीहिं गिद्धे वसए महामोह पकुव्वई / / 0 सत्यामृषा (प्र०), सत्यामृषाणि (मु०)। 9 विशिष्टान् शब्दादीन् विदारयति योऽसौ (मु०)। // 92 //