SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 91 // सूत्रम् 30 ३०समवायः मोहनीयस्थानादिः पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं / अंतो नदंतं मारेइ महामोहं पकुव्वई / पाणिना- हस्तेन संपिधाय- स्थगयित्वा, किं तत्?- श्रोतो रन्ध्र मुखमित्यर्थः, तथा आवृत्य- अवरुध्य प्राणिनं ततः अन्तर्नदन्तं गलमध्ये रवं कुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति य: स इति गम्यते, महामोहं प्रकरोतीति तृतीयं 3 / जायतेयं समारब्भ बहुं ओरंभिया जणं / अंतो धूमेण मारेइ महामोहं. पकुम्बई। जाततेजसं वैश्वानरं समारभ्य प्रज्वाल्य बहु प्रभूतं अवरुध्य महामण्डपवाटादिषु प्रक्षिप्य जनं लोकं अन्तः- मध्ये मण्डपादेवूमेन- वह्निलिङ्गेन अथवा अन्तधूमो यस्यासावन्तधूमस्तेन जाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोह प्रकरोतीति चतुर्थं 4 / सीसम्मि जे पहणइ उत्तमंगम्मि चेयसा। विभज्ज मत्थयं फाले महामोहं पकुव्वई। शीर्षे शिरसि यः प्रहन्तिखड्गमुद्रादिना प्रहरति प्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि?- उत्तमाङ्गेसर्वावयवानांप्रधानावयवेतद्विघातेऽवश्यं मरणात् चेतसा- संक्लिष्टेन मनसा न यथाकथञ्चिदित्यर्थः, तथा विभाज्य मस्तकं प्रकृष्टप्रहारदानेन स्फाटयति- विदारयति / ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् स महामोहं प्रकरोतीति पञ्चमं 5 / पुणो पुणो पणिहीए हसित्ता उवहसे जणं / फलेणं अदुव डंडेणं महामोहं पकुव्वई। पौनःपुण्येन प्रणिधिना- मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः पथि। गच्छता सह गत्वा विजने मारयन्ति, तथा हत्वा-विनाश्य य इति गम्यते उपहसेत् आनन्दातिरेकात् जनं मुग्धलोकं हन्यमानम्, केन हत्वा?- फलेन योगविभावितेन मातुलिङ्गादिना अदुव तथा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति षष्ठं 6 / गूढायारी निगूहेज्जा मायं मायाए छायए। असच्चवाई निण्हाई महामोहं पकुव्वई। गूढाचारी प्रच्छन्नानाचारवान् निगूहयेत- गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारं तथा मायां परकीयां मायया स्वकीयया छादयेत्- जयेत्, यथा शकुनिमारकाश्छदैरात्मानमावृत्य शकुनीन् गृह्णन्तः स्वकीयमायया शकुनिमायां छादयन्ति, तथा असत्यवादी निह्नवी अपलापकः स्वकीयाया मूलगुणोत्तरगुण // 21 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy