________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 87 // रात्रिदिवसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्णपक्षे प्रत्येकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च- आसाढबहुलपक्खे भद्दवए सूत्रम् 29 समवायः कत्तिए य पोसे य / फग्गुणवइसाहेसु य बोद्धव्वा ओमरत्ताओ॥१॥(उत्तरा०२६/१५)त्ति / इयमत्र भावना- चन्द्रमासो हि एकोन-2 पापश्रुतादिः त्रिंशद्दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्च त्रिंशदेव दिनानि भवतीति चन्द्रमासापेक्षया ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता समधिकों भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्ट्या चन्द्रदिवसानामेकषष्टिरहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेषस्त्विह चन्द्रप्रज्ञप्तेरवसेय इति, तथा चंददिणे णं ति चन्द्रदिनं- प्रतिपदादिका तिथिः,तच्चैकोनत्रिंशत् मुहूर्ताः सातिरेका मुहूर्तपरिमाणेनेति, कथं?, यतः किल चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच्च दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन / मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंशन्मुहूर्ता द्वात्रिंशच्च मुहूर्तस्य द्विषष्टिभागा लभ्यन्त इति, तथा जीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेषूत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीर्बध्नाति, ताश्चेमाः-देवगतिः१ पञ्चेन्द्रियजातिः 2 वैक्रियद्वयं 4 तैजसकार्मणशरीरे 6 समचतुरस्रं संस्थानं 7 वर्णादिचतुष्कं 11 देवानुपूर्वी 12 अगुरुलघु 13 उपघातं 14 पराघातं 15 उच्छ्रासं१६ प्रशस्तविहायोगतिः१७ वसं 18 बादरं १९पर्याप्तं 20 प्रत्येकं 21 स्थिरास्थिरयोरन्यतरत् 22 शुभाशुभयोरन्यतरत् 23 सुभगं 24 सुस्वरं 25 आदेयानादेययोरन्यतरत् 26 यशःकीर्ति: 27 निर्माणं 28 तीर्थकरं चेति // 29 // तीसंमोहणीयठाणा प० तं-जे आवि तसे पाणे, वारिमझे विगाहिआ। उदएण कम्मा मारेइ, महामोहं पकुव्वई // 1 // सीसा0 कृष्णे पक्षे (मु०)। 0 आषाढकृष्णपक्षे भाद्रपदे कार्तिके च पौषे च / फाल्गुने वैशाखे च बोद्धव्या अवमरात्रयः // 1 // 0 साधिको (मु०)10 यश:कीर्त्ययशकीयोरेकतरं (मु०)। // 87 //