SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 81 // सूत्रम् 27 २७समवायः अनगारगुणादिः ठिई प०, जे देवा मज्झिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसिणं देवाणं उक्ोसेणं सत्तावीसं सागरोवमाई ठिई प०, ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं सत्तावीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवाजे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 27 // सप्तविंशतिस्थानकमपि व्यक्तमेव, केवलं षट् सूत्राणि स्थितेरर्वाक् तत्र अनगाराणां- साधूनां गुणा:- चारित्रविशेषा अनगारगुणाः, तत्र महाव्रतानि पञ्चेन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्यं-शुद्धान्तरात्मता करणसत्यं- यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते, योगसत्यं- योगाना- मनःप्रभृतीनामवितथत्वं 17, क्षमाअनभिव्यक्तक्रोधमानस्वरूपस्य, द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यांतूदयप्राप्तयोस्तयोनिरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति 18, विरागता-अभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोर्निरोधःप्रागभिहित इतीहापि न पुनरुक्ततेति 19, मनोवाक्कायानां समाहरणता, पाठान्तरतः समन्वाहरणता-अकुशलानां निरोधास्त्रयः 22, ज्ञानादिसम्पन्नतास्तिस्रः 25, वेदनातिसहनता-शीताधतिसहनं 26, मारणान्तिकातिसहनता-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति 27, तथा जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासोनक्षत्रचन्द्राभिवर्द्धितऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः,तत्र नक्षत्रमासः- चन्द्रस्य नक्षत्रमण्डलभोगकाल 0 वेदनावि(धि)सहनता- शीताद्यधिसहनं (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy