________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 82 // सूत्रम् 28 28 समवायः आचारप्रकल्पादिः लक्षणः सप्तविंशतिः रात्रिन्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति- अहोरात्रपरिमाणापेक्षयेदं परिमाणं न तु सर्वथा, तस्याधिकतरत्वाद्, आधिक्यं चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति, विमाणपुढवि त्ति विमानानां पृथिवी- भूमिका, तथा वेदकसम्यक्त्वबन्धः-क्षायोपशमिकसम्यक्त्वहेतुभूतशुद्धदलिकपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य उवरओत्ति प्राकृतत्वादुद्वलकोवियोजको योजन्तुस्तस्य मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्मांशाः सत्तायामित्यर्थः, एकस्योद्वलितत्वादिति, तथा श्रावणमासस्य शुद्धसप्तम्यां सूर्यः सप्तविंशत्यङ्गलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषीं छायां प्रहरच्छायां निर्वर्त्य दिवसक्षेत्रं- रविकरप्रकाशमाकाशं निवर्द्धयन्- प्रकाशहान्या हानि नयन् रजनीक्षेत्रं- अन्धकाराक्रान्तमाकाशमभिनिवर्द्धयन्- प्रकाशहान्या वृद्धिं नयन् चारं चरति-व्योममण्डले भ्रमणं करोति, अयमत्र भावार्थः- इह किलस्थूलन्यायमाश्रित्य आषाढ्यां चतुर्विंशत्यङ्गलप्रमाणा पौरुषीच्छाया भवति, दिनसप्तके च सातिरेके छायाऽङ्गलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गलत्रयं वर्द्धते, सातिरेकैकविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ याः सत्कैरङ्गलैः सह सप्तविंशतिरङ्गलानि भवन्ति, निश्चयतस्तु कर्कसंक्रान्तेरारभ्य यत्सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति // 27 // अट्ठावीसविहे आयारपकप्पे प० तं०- मासिआ आरोवणा सपंचराईमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चेव दोमासिआ आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिआ आरोवणा चउमासिया आरोवणा उवघाइया आरोवणा अणुवघाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा एतावता आयारपकप्पे एताव ताव आयरियव्वे, भवसिद्धियाणं जीवाणं अत्थेगइयाणं मोहणिज्जस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा प० तं०- सम्मत्तवेअणिज्जं मिच्छत्तवेयणिज्न सम्म®धिकत्वाद् (मु०)10 पौरुषीछायां निर्वर्त्य (प्र०)। // 82 //