________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1424 // भवति भेदः, उत्तरगुण सत्तमओ त्ति प्रतिपन्नोत्तरगुणः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव ६.षष्ठमध्ययन भेदो विवक्षितः, अविरयओ चेव अट्ठमओ त्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः॥ 1559 // इत्थमेते प्रत्याख्यान:, नियुक्तिः अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद् भवन्ति, कथमित्यत आह- पणग त्ति पञ्चाणुव्रतानि समुदितान्येव 1556-61 गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् भेदा भवन्ति, चउक्कं च त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, तिग न्ति श्रावकभेदाः एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, दुर्गच त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, एक्कं वत्ति तथाऽन्य एकमेवाणुव्रतं अणुव्रत भेदाश्च। गृह्णाति, तत्रापिषडेव, गिण्हइ वयाईति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्चषट्कास्त्रिंशद् / भवन्ति, प्रतिपन्नोत्तरगुणेन सहकत्रिंशत्, तथा चाह-अहवावि(य)उत्तरगुणे त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह- अहवावि न गिण्हती किंचि त्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः // 1560 // इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्त्तते तथा चाह-निस्संकियनिक्कंखिय गाहा, शङ्कादिस्वरूपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्याम: वीरवचने महावीरवर्द्धमानस्वामिप्रवचने एते अनन्तरोक्ता द्वात्रिंशदुपासका:- श्रावका भणिता:- उक्ता इति गाथार्थः // 1561 // एते चेव बत्तीसतिविहा। करणतियजोगतियकालतिएणं विसेसेजमाणासीयालं समणोवासगसयं भवति, कह?, पाणाइवायंन करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ काएणं 3, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएण य 6, अथवा पाणातिपातं न करेति मणेणं वायाए काएण य', एते सत्त भंगा करणेणं, एवं कारवणेणवि एए चेव सत्त भंगा 14, एवं अणुमोयणेणवि सत्त भंगा। // 1 424 //