________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1422 // ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1558-61 श्रावकभेदाः अणुव्रतभेदाश्च। नि०- दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ / दुविहं एगविहेणं एगविहं चेव तिविहेणं // 1558 // नि०- एगविहंदुविहेणं इक्किक्कविहेण छ?ओ होइ / उत्तरगुण सत्तमओ अविरयओचेव अट्ठमओ॥१५५९॥ नि०- पणय चउक्कं च तिगंदुगंच एगंच गिण्हइ वयाई। अहवाऽवि उत्तरगुणे अहवाऽविन गिण्हई किंचि॥१५६०॥ नि०- निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठीय। वीरवयणमि एए बत्तीसंसावया भणिया॥१५६१॥ B तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणांच सामाचारी शृणोतीति श्रावक इति, उक्तं च- यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् / शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते॥१॥श्रावकाणां धर्म:२ तस्य विधिस्तं वक्ष्ये- अभिधास्ये, किंभूतं?- धीरपुरुषप्रज्ञप्तं महासत्त्वमहाबुद्धितीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्त्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः // 1556 // तत्र- साभिग्गहा य निरभिग्गहा य गाहा, अभिगृह्यन्त इत्यभिग्रहा:- प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्त्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वक देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता- अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, तेच केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओघेन-सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपिविभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इतिगाथार्थः॥१५५७॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह- दुविहतिविहेण गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-द्विविध मिति कृतकारितं त्रिविधेने ति मनसा वाचा कायेनेति, एतदुक्तं भवति-स्थूलप्राणातिपातं न करोत्यात्मनान कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोर 12 //