________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1421 // भेदाच। पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्त्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैव- सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं ६.षष्ठमध्ययनं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद् वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविधं-3 प्रत्याख्यान:, नियुक्तिः त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूर्वं वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविधं- इत्तरियमावकहियं 1556-61 च तत्रेत्वरं-साधूनां किञ्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि, यावत्कथिकं तु नियन्त्रितम्, यत् कान्तार- श्रावकभेदाः अणुव्रतदुर्भिक्षादिष्वपिन भज्यते, श्रावकाणांतु त्रीणि गुणव्रतानीति गाथार्थः॥२४२॥साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदर्शयन्नाह- पाणिवहमुसावाए गाहा, प्राणा- इन्द्रियादयः, तथा चोक्तं-पञ्चेन्द्रियाणि त्रिविधं बलंच, उश्छासनिश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्ता, एषां वियोगीकरणं तु हिंसा॥१॥तेषां वध:प्राणवधो(न) जीववधस्तस्मिन्, मृषा वदनं मृषावादस्तस्मिन्, ] असदभिधान इत्यर्थः, अदत्तं ति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, मेहुण त्ति मैथुने अब्रह्मसेवने यदुक्तं भवति, परिग्गहे चेव त्ति परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां-साधूनां मूलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतव्या:अनुसरणीयाः, इयमत्र भावना- श्रमणा: प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ तिविध न्ति न करेति न कारवेइ 3 करतंपि अण्णं णाणुजाणेति, तिविहं ति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः॥ 243 // इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानम्, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतःप्रतिपिपादयिषुराह // 1421 // नि०- सावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं ।जंचरिऊण सुविहिया गिहिणोवि सुहाई पावंति // 1556 // नि०-साभिग्गहा य निरभिग्गहा य ओहेण सावया दुविहा / ते पुण विभज्जमाणा अट्ठविहा हुँति नायव्वा // 1557 //