SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1416 // साधव: अष्टविधं- अष्टप्रकारं कर्मसङ्घातं-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥१५५१॥ आह- यदि कायोत्सर्गे सु- 5. पञ्चमस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति?, अत्रोच्यते, सौम्य! मैवं- अन्नं इमं गाहा व्याख्या-1 मध्ययनं कायोत्सर्गः, अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वत: स्वकृतकर्मफलोपभोक्ता य इदं / नियुक्तिः त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात्, किं च- यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते 1551-54 पारलौकिकस्ततःसुतरांयत्नः कार्य इति गाथार्थः॥१५५२॥ किं चैवं विभावनीयं- जावइया गाहा व्याख्या- यावन्त्यकृत कार्योत्सर्गे भावना। जिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभव भाष्य: 239 लक्षणे यानि मयाऽनुभूतानि तत:- तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि- उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषांशेषगतिसमुत्थदुःखापेक्षयेतिगाथार्थः॥१५५३॥यतश्चैवं तम्हागाथा, तस्मात् तु निर्ममेनममत्वरहितेन मुनिना-साधुना, किंभूतेन?- उपलब्धसूत्रसारण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं?- कायोत्सर्ग:- उक्तस्वरूपः उग्रः-शुभाध्यवसायप्रबल: कर्मक्षयार्थं नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः॥१५५४ / / उक्तोऽनुगमः, नयाः पूर्ववत्॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम्। कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् / तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु॥१॥ | ॥इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ कायोत्सर्गाख्यं पञ्चममध्ययनं समाप्तम् / / // 1416 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy