________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1395 // इत्यभ्युपगम्यन्ते अत आह- पारगतेभ्य: पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगतास्तेभ्यः, तेऽपिचानादिसिद्धक 5. पञ्चमजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह- परम्परगतेभ्यः परम्परया एकेनाभिव्यक्तार्थादागमात् (कश्चित्) मध्ययनं कायोत्सर्गः, प्रवृत्तोऽन्येनाभिव्यक्तादादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथम एव केनाभिव्यक्तार्थादागमात् / सूत्रम् प्रवृत्त इति?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञान 36(37) सिद्धाणं ज्ञानाच्चारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत आह- लोकाग्रमुपगतेभ्यः बुद्धाणं। लोकाग्रं- ईषत्प्राग्भाराख्यं तमुपगतास्तेभ्यः, आह- कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति?, भावे वासर्वदैव कस्मान्न भवतीति?, अत्रोच्यते, पूर्वावधवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमवसेयेति, नमःसर्वदा-सर्वकालं सर्वसिद्धेभ्य: तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्वं साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कार कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति- जो देवाणवि देवो जं देवा पंजली त्यादि, यो भगवान् महावीरः देवानामपि- भवनवास्यादीनां देवः, पूज्यत्वात्, तथा चाह- यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाःसन्तः प्रणमन्ति, तं देवदेवमहियं देवदेवा:-शक्रादयस्तैर्महितं-पूजितं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे,तं कं?- महावीरं ईरगतिप्रेरणयोरित्यस्य विपूर्वस्य विशेषेण ईरयति-कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम्, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति- एक्कोऽवि नमोक्कारो जिणवरवसहस्से त्यादि, एकोऽपिनमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरातारयति नरंवा नारीवा, इयमत्र भावना-सतिसम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः 1930