SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 35(36) पुक्खरवरद्दी। // 1393 // धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद्वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहिआगमवन्त एव मर्यादां धारयन्ति, किं- भूतस्य?- प्रकर्षेण स्फोटितं मोहजालं- मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह- जाईजरामरणे त्यादि, जाति:- उत्पत्तिः जरा- वयोहानिः मरणं-प्राणत्यागःशोकः- मानसो दुःखविशेषः, जातिश्च जराच मरणंच शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान्, प्रणाशयति- अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाजात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यं- आरोग्यं कल्यमणतीति कल्याणम्, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्ण न च तदल्पं किं तु विशालं-विस्तीर्ण सुखं- प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति-प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, क:प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य- दृष्ट्वा विज्ञाय कुर्यात् प्रमादं सचेतनः? चारित्रधर्मे प्रमादः कर्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थमिति?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः सिद्धे भो पयओ नमो जिणमये इत्यादि, सिद्धे- प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं- यथाशक्त्याद्यत: प्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृ)त्वा पुनर्नमस्करोतिनमो जिनमते अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालम्, व?- संयमे- चारित्रे, यथोक्तं- पढमणाणं तओ दयेत्यादि, किंभूते संयमे?- देवनागसुवर्णकिन्नरगणै: सद्भूतभावेनार्चिते, // 1393 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy