________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1391 // 5. पञ्चममध्ययन कायोत्सर्गः, सूत्रम् 34(35) सव्वलोए अरिहंत०। उक्तं च- दव्वत्थउ भावत्थउ इत्यादि, अत: श्रावका: पूजनसत्कारावपि कुर्वन्त्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति, तथा सम्माणवत्तियाएत्ति सन्मानप्रत्ययं-सन्माननिमित्तम्, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानः, तथा मानस: प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह- बोहिलाभवत्तियाए बोधिलाभप्रत्ययंबोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभोभण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह निरुवसग्गवत्तियाए निरुपसर्गप्रत्ययं- निरुपसर्गनिमित्तम्, निरुपसर्गो- मोक्षः, अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा(दि) विकलस्य। नाभिलषितार्थप्रसाधनायालमित्यत आह- सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वद्धमाणीए ठामि काउस्सगं ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, एव मेधया- पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते- मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्या- मनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया- अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया- अर्हगुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम्, आहउक्तमेव प्राक्करोमि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति?, उच्यते, वर्तमानसामीप्ये वर्तमानवद्वा (पा०३-३-१३१) इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आहकिं सर्वथा?, नेत्याह- अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामित्ति, एयंचसुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, दंसणविसुद्धीय तइउ त्ति, तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओ नमोक्कारेण पारेत्ता सुयणाणपरिवुट्टिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुई पढंति, // 13 91 //