SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक 5. पञ्चममध्ययन कायोत्सर्गः, सूत्रम् 34(35) सव्वलोए अरिहंत। वृत्तियुतम् भाग-४ निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं ।सूत्रम् 34 // (35) सर्वलोकेऽर्हचैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोक:- चतुर्दशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् / तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् // 1 // सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः, सर्वश्चासौ लोकश्च 2 तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि- अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवार्हचैत्यानि ऊर्द्धलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपांपूजामर्हन्तीत्यर्हन्त:- तीर्थकरास्तेषांचैत्यानि-प्रतिमालक्षणानि अर्हच्चैत्यानि, इयमत्र भावना-चित्तं- अन्त:करणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे ष्यञि कृते चैत्यं भवति, तत्रार्हतांप्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादहचैत्यानि भण्यन्ते, तेषां किं?- करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह- काय:- शरीरं तस्योत्सर्गः- कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्गम्, आह- कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हच्चैत्यानामिति प्रागुक्तम्, तत् किमर्हच्चैत्यानां कायोत्सर्गं करोति?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽर्हच्चैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनं-अभिवादनं प्रशस्तकायवाननःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तनिमित्तम्, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा पूयणवत्तियाए त्ति पूजनप्रत्ययं- पूजानिमित्तम्, तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनम्, तथा सक्कारवत्तियाए त्ति सत्कारप्रत्ययं-सत्कारनिमित्तम्, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्यय:कायोत्सर्गः क्रियते ततस्तावेव कस्मान्न क्रियेते?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, // 1390 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy