________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1384 // निरोधे उच्छासस्य, ततश्च सुहुमुस्सासं तु जयणाए त्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्बणम्, मा भूत् सत्त्वघात इति 5. पञ्चमगाथार्थः॥१५१०॥अधुना कासिते त्यादिसूत्रार्थप्रचिकटिषयेदमाह-कासखुयजंभिए गाहा व्याख्या- इह कायोत्सर्गे कास मध्ययनं कायोत्सर्गः, क्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति?- मा हु सत्थमणिलोऽणिलस्स तिव्वुण्हो त्ति मा शस्त्रं भविष्यति कासितादि नियुक्तिः समुद्भवोऽनिलो- वायुरनिलस्य- बाह्यस्य वायोः, किंभूतः?- तीव्रोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः / न च न 1510-16 क्रियन्तेन च निरुध्यन्त एव न असमाही य निरोहे त्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे कायोत्सर्ग स्याकाराः। सति, मा मसगाई त्तिमा मसकादयश्च कासितादिसमुद्भवपवनश्लेष्माभिहता मरिष्यन्ति जृम्भितेच वदनप्रवेशं करिष्यन्ति ततोल हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः॥ 1511 // आह-नि:श्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणं?, उच्यते, उच्छसितेन तुल्ययोगक्षेमत्वादिति, इदानीं उद्गारितेने त्यादिसूत्रावयवव्याचिख्यासयाऽऽह- वातनिसर्ग:उक्तस्वरूप उद्गारोऽपि, तत्रायं विधि:- यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, नेव य निरोहो त्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति भमलीमुच्छासु य निवेसो मा सहसापतितस्यात्मविराधना भविष्यतीति / गाथार्थः // 1512 // साम्प्रतं सूक्ष्मैरङ्गसञ्चारै रित्यादिसूत्रावयवव्याचिख्यासयाऽऽह- वीर्यसयोगतया कारणेन संचाराः। सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजंखल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोगतयैवातिचारा: सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र बही रोमश्चादय आदिशब्दादुत्कम्पग्रहः अन्तो खेलानिलादीया अन्त:- मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः // 1513 // अधुना सूक्ष्मदृष्टिसञ्चारै रिति सूत्रावयवं व्याख्यानयति- अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालस