SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1379 // 5. पञ्चममध्ययनं कायोत्सर्गः, | नियुक्तिः |1498 दिवसातिचाराः। स्थानं कार्यमेव, सप्रयोजनत्वात्, तथाविधवैयावृत्यवदिति गाथार्थः॥१४९७ // साम्प्रतं यदुक्तं दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह नि०- सयणासणण्णपाणे चेइय जइसेज काय उच्चारे / समिती भावणगुत्ती वितहायरणंमि अइयारो॥१४९८ // शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, अण्णपाण त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, चेतिय त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, जइ त्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाद्यकरणमिति, सेजत्ति शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ स्त्र्यादिसंसक्तायां वा वसत इत्यादि, काय इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजत: स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, उच्चारे त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चार:-पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायाम्, समिति त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चेर्यासमितिप्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासेवने चेत्यादि, भावने ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तं-भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे। अशुचित्वं संसार: कर्माश्रवसंवरविधिश्च // 1 // निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च / बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः॥ 2 // अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, गुत्ति ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयो यथा // 1379 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy