________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1378 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः 1497 एकमनसोतिचारज्ञानम्। प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थ तु भाष्यकारोवक्ष्यति, तत्रेच्छामि स्थातुंकायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह- कायोत्सर्गस्थानं नकार्यम, प्रयोजनरहितत्वात्, तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धम्, यतः काउस्सगंमि ठिओ निरेयकाओ निरुद्धवइपसरो। जाणइ सुहमेगमणो मुणि देवसियाइअइयारं // 1 // (प्र०) परिजाणिऊण य जओ संमं गुरुजणपगासणेणं तु / सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भणिओ॥२॥ (प्र०) नि०- काउस्सगं मुक्खपहदेसियं जाणिऊण तो धीरा / दिवसाइयारजाणणट्ठयाइ ठायंति उस्सगं // 1497 // इह चसम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमितिकृत्वा व्याख्यायते, कार्योत्सर्गे उक्तस्वरूपे स्थितःसन् निरेजकायोनिष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः- मौनव्यवस्थितः सन् जानीते सुखमेकमना- एकाग्रचित्त, सन् कोऽसौ?- मुनि:साधुः, किं?-दैवसिकातिचारं आदिशब्दाद्रात्रिकग्रह इति गाथार्थः। तत: किमित्याह- यस्मात् कारणात् सम्यग-अशठभावेन गुरुजनप्रकाशनेन- गुरुजननिवेदनेनेति हृदयम्, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यत: कायोत्सर्गस्थानं कार्यमिति, किंच- यस्माज्जिनैर्भगवद्भिरयंकायोत्सर्गो भणित- उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः॥१-२॥यतश्चैवमत: काउस्सगं मुक्खपहदेसियं ति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात्, तेन मोक्षपथेन देशित:- उपदिष्टः मोक्षपथदेशितस्तम्, जाणिऊणं ति दिवसाद्यतिचारपरिज्ञानोपायतया विज्ञाय ततो धीरा:- साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रात्र्यतिचारज्ञानार्थमपि, ठायंति उस्सगं ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्ग // 1378 //