________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1377 // 5. पश्चममध्ययन कायोत्सर्गः, सूत्रम् 33(34) तस्सउत्तरी० अन्नत्थ०। व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयम्, तत्रोर्ध्वं प्रबलं वा श्वसितमुच्छ्रसितं तेन, नीससिएणं ति अध:श्वसितं निःश्वसितं तेन निःश्वसितेन, खासिएणं ति कासितं प्रतीतम्, छीएणं ति क्षुतं प्रतीतमेव तेनैतदपि, जंभाइएणं ति जृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उड्डएणं ति उद्गारितं प्रतीतम्, वायनिसग्गेणं ति अपानेन पवननिर्गमो वातनिसर्गो भण्यते तेन, भमलीए त्ति भ्रमल्या, इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्च्छया पित्तमूर्च्छयाऽपि, पित्तप्राबल्यात् मनाग मूर्छा भवति, सुहुमेहिं अंगसंचालेहिं सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्मादिभिः, सुहुमेहिं खेलसंचालेहिं / सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्व्यतया ते खल्वन्तर्भवन्ति सुहुमेहिं दिट्ठिसंचालेहिं सूक्ष्मदृष्टिसञ्चारैः- निमेषादिभिः, एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गो एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्न सर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत् मम कायोत्सर्गः, कियन्तं कालं यावदित्याह- जाव अरहताणं भगवंताणं नमोक्कारेणं नपारेमि यावदर्हतां भगवतांनमस्कारेण न पारयामि, यावदिति कालावधारणम्, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेषामर्हतां भगः- ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना। नमस्कारेण नमो अरहंताणं इत्यनेन न पारयामि-न पारं गच्छामि, तावत् किमित्याह- ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि त्ति तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन- ऊर्द्धस्थानेन तथा मौनेन- वाग्निरोधलक्षणेन, तथा ध्यानेन शुभेन, अप्पाणं ति प्राकृतशैल्या आत्मीयम्, अन्ये न पठन्त्येवैनमालापकम्, व्युत्सृजामि- परित्यजामि, इयमत्र भावनाकायंस्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः // 1377 //