SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1376 // 5. पञ्चममध्ययन कायोत्सर्गः, | सूत्रम् 33(34) तस्सउत्तरी० अन्नत्थ०। तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारमिताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि // सूत्रम् 33 // (34) तस्योत्तरीकरणेन तस्ये ति तस्य- अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन ठामि काउस्सग्ग मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृति:- करणमिति, तच्च प्रायश्चित्तद्वारेण भवति अत आह- पायच्छित्तकरणेणं प्रायश्चित्तशब्दार्थं वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्तव्यायां मूलकरणम्, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन- प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह- विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनः प्रक्षालनमित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणंच विशल्यकरणद्वारेण भवत्यत आह-विसल्लीकरणेणं विगतानि शल्यानि- मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, पावाणं कम्माणं णिग्घायणट्ठाए ठामि काउस्सगं पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं?-तिष्ठामि कायोत्सर्ग कायस्योत्सर्ग:कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति- अनेकार्थत्वाद् धातूनां तिष्ठामीति-करोमि कायोत्सर्गम्, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा? नेत्याह- अन्नत्थूससिएणं ति अन्यत्रोच्छ्रुसितेन, उच्छृसितं मुक्त्वा योऽन्यो व्यापारस्तेन // 1376 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy