SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1375 // च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं सूत्रं-'करेमि भंते! सामाइयमित्यादि यावत् . 5. पचमअप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथा मन्तव्या पुनरभिधानेच प्रयोजनं वक्ष्यामः, मध्ययनं कायोत्सर्गः, इदमपरं सूत्रं सूत्रम् इच्छामि ठाइउंकाउस्सग्गजो मे देवसिओ अइआरोकओ काइओवाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो 32(33) दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हंगुत्तीणंचउण्हं कसायाणं इच्छामि ठामि काउस्सग्ग। पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणंजोगाणं जं खंडिअंज विराहिअंतस्स मिच्छामि दुक्कडं। सूत्रम् 32 // (33) तल्लक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुंकायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु इषु इच्छायामित्यस्योत्तमपुरुषस्यैकवचनान्तस्य इषुगमियमां छ इति (पा०७-३-७७) छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति ष्ठा गतिनिवृत्तौ इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, कायोत्सर्ग मिति चिञ् चयने अस्य घान्तस्य निवाससमिति (चिति) शरीरोपसमाधानेष्वादेश्च क इति (पा०३३-४१) चीयते इति काय: देह इत्यर्थः सृज विसर्गेइत्यस्य उत्पूर्वस्य पनि उत्सर्ग इति भवति, शेषपदार्थो यथा प्रतिक्रमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुम्, कं?- कायोत्सर्गकायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः / तथेदमन्यत्तु सूत्रं
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy