________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1374 // यथा खदिरो भवति द्रुम एव, द्रुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः॥१४८८ // अन्ये पुनरिदं गाथाद्वयमति 5. पञ्चमक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं चित्तं चिय तं न तं झाणंती त्येतदसत्, कथं?, यदि ते चित्तं झाणं एवं मध्ययन कायोत्सर्गः, झाणमवि चित्तमावन्नं सामान्येन तेन र चित्तं झाणं किमुच्यते चित्तं चित्तं न झाणं ति अह नेयं झाणमन्नं ते चित्तात्, अत्र नियुक्तिः पाठान्तरेणोत्तरगाथा नियमा चित्तं झाणं झाणं चित्तं न यावि भइयव्वं यतोऽव्यक्तादिचित्तं न ध्यानमिति, जह खदिरो इत्यादि 1479-96 निदर्शनं पूर्वम्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधान: कायोत्सर्गभेद इति, स च व्याख्यात एव, उच्छ्रितोच्छ्रि तादिस्वरूपं। नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानीं तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते- निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदर्श्यते तत्रेयं गाथा- निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिर्निषण्णकारी वेदितव्यः, वक्ष्यते च- अतरंतो उ इत्यादि, अधुना पञ्चम: कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा- निगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना षष्ठः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा- निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते, इह च- निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादियों निषण्णोऽपि कर्तुमसमर्थः स निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टम: कायोत्सर्गभेदः प्रदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निष (व)- एणः, स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना नवमः कायोत्सर्गभेदः प्रदर्श्यते, इह च- अट्ट रुदं च दुवे गाहा निगदसिद्धा। अतरंतो गाहा निगदसिद्धैव, नवरं कारणियसहूवि य निसण्णो त्ति यो हि गुरुवैयावृत्त्यादिना व्यापृतः कारणिकः 8 // 1374 // ससमर्थोऽपि निषण्ण: करोतीति // 1495-1496 // इत्थं तावत् कायोत्सर्ग उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स