SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1373 // झाणंमि इत्यादि, एवं च व्यवस्थिते अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः / स्यादतस्तदपनोदाय शङ्कामाह- पुव्वं च जंतदुत्तं ननु त्रिविधे ध्याने सति पूर्वं यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं अन्तोमुत्तकालं मध्ययनं कायोत्सर्गः, | चित्तस्सेगग्गया भवति झाणं ति वचनात् चशब्दाद्यच्च तदूर्द्धमुक्तं- भंगियसुयं गुणतो वट्टइ तिविहेवि झाणमि तदेतत् परस्परविरुद्ध | नियुक्तिः कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किञ्चिद् ध्यायति वाचाऽभिधत्ते कायेन क्रियां 1479-96 करोतीति अनेकाग्रता, आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह- चित्तं चिय तं न तं झाणं यदनेका उच्छ्रितोच्छ्रि तादिस्वरूपं। तच्चित्तमेव न ध्यानमिति गाथार्थः॥१४८५ // आह- उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात्, तथाहि-आ०- मणसहिएणमनःसहितेनैव कायेन करोति, यदितिसम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्त्तते, भावकरणं च ध्यानम्, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति- इहानेकाग्रतैव नास्ति सर्वेषामेव मन:प्रभृतीनामेकविषयत्वात्, तथाहि- स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः॥ 1486 // इत्थं प्रतिपादिते सत्यपरस्त्वाह- जइ ते चित्तं झाणं यदि ते- तव चित्तं ध्यानं अन्तोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं ति वचनात्, एवं ध्यानमपि चित्तमापन्नम्, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयम्, अथ नैवमिष्यते- मा भूत्, कायिकवाचिके ध्याने न भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते- तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थः॥ 1487 // अत्र चाचार्य आह- अभ्युपगमाददोषः, तथाहि- नियमा चित्तं झाणं नियमात्- नियमेन उक्तलक्षणं चित्तं ध्यानमेव, झाणं चित्तं न यावि भइयत्वं ध्यानं तु चित्तं न चाप्येवं भक्तव्यं-विकल्पनीयम्, अत्रैवार्थे दृष्टान्तमाह-जह खइरो होइ दुमो दुमो य खइरो अखइरोवा
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy