________________ 5. पञ्चम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1372 // गाथार्थः // 1479-1480 // आह- कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति?, अत्रोच्यते- पयलायंत प्रचलायमान ईषत् स्वपन्नित्यर्थः, सुसुत्त त्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यानं- धर्मशुक्ललक्षणं अशुभं वा- मध्ययनं कायोत्सर्गः, आर्त्तरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव शुभं ध्यायति ध्यानं | नियुक्तिः नाशुभमिति गाथार्थः // 1481 // किंच-अचिरोववन्नगाणं न चिरोपपन्नका अचिरोपपन्नकाः, तेषामचिरोपपन्नकानामचिर- 1479-96 जातानामित्यर्थः, मूच्छिताव्यक्तमत्तसुप्तानां- मूच्छितानामभिघातादिना अव्यक्तानां- अव्यक्तचेतसां मत्तानां मदिरादिना | उच्छ्रितोच्छ्रि तादिस्वरूपं। सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्तं कीदृगित्याह- ओहाडियमवत्तं च होइल पाएण चित्तं तु ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तंच-अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः॥१४८२॥ स्यादेतत्- एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति?, अत्रोच्यते, नैतदेवम्, यस्मात्- आलम्बने लग्नं 2 गाढमालम्बने लग्नं 2 एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं- अन्त:करणं उक्तं- भणितम्, निरेजनं- निष्प्रकम्पं ध्यानम्, यतश्चैवमतः शेषं- यदस्मादन्यत् तन्न भवति ध्यानम्, किंभूतं?- मदुयमवत्तं भमन्तं वा मृदु- भावनायामकठोरं अव्यक्तं पूर्वोक्तं भ्रमन्वा- अनवस्थितं वेति गाथार्थः // 1483 // आह- यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुत: अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति?, अत्रोच्यते- उम्हासेसोवि. उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी- अग्निर्भूत्वा लब्धेन्धनः- प्राप्तकाष्ठादिः सन् पुनवलति, इय एवं अव्यक्तं // 1372 // चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः // 1484 // इत्थं प्रासङ्गिकं कियदप्युक्तम्, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्तं?, कायिकादि त्रिविधं ध्यानम्, यत उक्तं- भंगियसुयं गुणतो वट्टइ तिविहेऽवि