________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1364 // 5. पचममध्ययन कायोत्सर्गः, नियुक्तिः 1459-61 उच्छ्रितोच्छ्रितादिभेदाः। कस्य?, न कस्यचिदिति गाथार्थः॥१४५५॥ तत्रैतत् स्यात्- भयमपि कर्माशो वर्त्तते, कर्मणोऽपिचाभिभवःखल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः- अट्ठविहंपि य कम्मं अष्टविधं- अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्ठविहंपि य कम्मं अरिभूतं च, ततश्चायमर्थ:- यस्मात् ज्ञानावरणीयादि अरिभूतं-शत्रुभूतं वर्त्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थं कर्मजयनिमित्तं अब्भुट्टिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपितपोद्वादशप्रकारं संयमंच सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्था:-साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः कार्य एवेति गाथार्थः॥१४५६॥ तथा चाह- तस्स कसाया इति तस्य प्रक्रान्तशत्रुसैन्यस्य कषायाःप्राग्निरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायका:- प्रधानाः, काउस्सग्गमभग्गं करेंति तो तज्जयट्ठाए त्ति काउस्सग्गं- अभिभवकायोत्सर्ग अभग्नं- अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थ-कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः॥१४५७॥गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथा-संवत्सरमुत्कृष्टं कालप्रमाणम्, तथा च बाहुबलिनासंवत्सरंकायोत्सर्गः कृत इति, अन्तोमुहत्तं च अभिभवकायोत्सर्गे अन्त्यं- जघन्यं कालपरिमाणम्, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं उवरि वोच्छंति उपरिष्टाद्वक्ष्याम इति गाथार्थः॥१४५८॥उक्तं तावदोघत: कालपरिमाणद्वारम्, अधुना भेदपरिमाणद्वारमधिकृत्याह नि०- उसिउस्सिओ अतह उस्सिओ अउस्सियनिसन्नओचेव। निसनुस्सिओ निसन्नो निस्सन्नगनिसन्नओचेव // 1459 // नि०- निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अनायव्वो। एएसिं तुपयाणं पत्तेय परूवणंवुच्छं // 1460 // नि०- उस्सिअनिसन्नग निवन्नगेय इक्किक्कगंमि उपयंमि / दव्वेण य भावेण य चउक्कभयणा उकायव्वा // 1461 / / // 1364 //