________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1360 // नवरमन्योऽपि यः पदसमूहः- पदसङ्घात:स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, किं०?-जे. 5. पञ्चमएगपए बहू अत्था यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति, पाठान्तरं वा जस्सेकपदे बहू अत्थ त्ति गाथार्थः॥ मध्ययन कायोत्सर्गः, 1443 // संग्रहकायप्रतिपादनायाह- संगहकाओ णेगा संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट? इत्याह- णेगावि जत्थ नियुक्तिः एगवयणेण घेप्पति त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्राम: सेना जातो वसति निविट्ठत्ति, यथासङ्ख्यम्, 1429-46 गतिकाय प्रभूतेष्वपि स्तम्बेषु सत्सु जात: शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निकायकाय निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः॥१४४४ // साम्प्रतं पर्यायकायं दर्शयति-पज्जवकाओ जीवनिकापर्यायकायःपुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपिकस्मिंश्चित् सांव्यवहारिके यादिः। यथा वर्णगन्धरसस्पर्शा अनन्तगुणा: अन्यापेक्षया, तथा चोक्तं- कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः। अधुना भारकायस्तत्र गाथा- एक्को काओ दुहा जाओ एकः काय:-क्षीरकायः द्विधा जातः, घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवेति- ब्रूहि हे मानव! केन कारणेन?, कथानकं यथा / प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणंति-भारकाय: कापोत्येवोच्यते इति ॥१४४५॥भावकायप्रतिपादनायाह• दुगतिगचउरो द्वौ त्रयश्चत्वारः पञ्च वा भावा- औदयिकादयः प्रभूता वाऽन्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स. भवति भावकायः, भावानां कायो भावकाय इति, जीवमजीवे विभासा उ जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति भाष्यः 231-233 // 1360 //