SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1359 // गतिकाय भाष्यः अणंतगुण त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च 5. पञ्चमतेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अथोच्येत-भवत्वेवमेव का नो हानिरिति?, उच्यते, एकस्य-पुरुषादेरेक- मध्ययन कायोत्सर्गः, काले- पुरुषादिकाले भवा न युज्यन्ते-न घटन्ते अनेके- बहव इति गाथार्थः // 1439 // इत्थं चोदकेनोक्ते गुरुराह नियुक्तिः दुहओऽणंतरभवियं दुहउ त्ति वर्तमानभवे वर्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकम्, पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं 1429-46 भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयंगाथार्थः॥१४४०॥पुरस्कृत निकायकाय भवसम्बन्धि त्रिभागावशेषायुष्क: सामान्येन तस्मिन्नेव भवे वर्तमानो बध्नाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति। जीवनिकाअतिप्रसङ्गनिवृत्त्यर्थमाह- होजियरेसुवि जइ तं दव्वभवा होज्ज ता तेऽवि भवेत् इतरेष्वपि-प्रभूतेष्वतीतेषु यद् बद्धमनागतेषु च / यादिः। यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि, तदायुष्ककर्मसम्बन्धादिति हृदयम्, न चैतदस्ति, 231-233 तस्मादसच्चोदकवचनमिति गाथार्थः॥१४४१॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- संझासु दोसु सूरो सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूषप्रदोषप्रतिबद्धयोः सूर्य- आदित्य: अदृश्यमानोऽपिअनुपलभ्यमानोऽपि प्रापणीयं- प्राप्यं समतिक्रान्तं- समतीतं च यथाऽवभासते- प्रकाशयति क्षेत्रम्, तद्यथा- प्रत्युषसन्ध्यायांपूर्वविदेहं भरतंच, प्रदोषसन्ध्यायांतु भरतमपरविदेहं च, तथैव- यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं-विज्ञेयमिति, एतदुक्तं भवति- वर्तमानभवे स्थित: पुरस्कृतभवं पश्चात्कृत्भवं च आयुष्ककर्म सद्व्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः॥१४४२॥अधुना मातृकाकायः प्रतिपाद्यते, (मातृकेऽपि)मातृकापदानि उप्पण्णेति वे त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथा चाह भाष्यकार:- माउयपयं ति मातृकापदमिति णेमंणेमं ति चिह्नम्, // 1359 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy