SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1357 // भिन्नः षड्डिधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारम् / अधुनाऽस्तिकायः प्रतिपाद्यते, तत्रेदं गाथाशकलं अत्थित्तिबहुपदेसा तेण पंचत्थिकाया उ अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, बहुप्रदेशास्तु यतस्तेन पञ्चैवास्तिकाया: तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च ए(अने)कत्वादस्तिकायत्वापत्तिरित्येतत् परिहतमवगन्तव्यम्, ते चामी पञ्च, तद्यथा- धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकाय: पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः॥साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाह जंतु पुरक्खड त्ति यद् द्रव्यमिति योग: तुशब्दो विशेषणार्थः किं विशिनष्टि?- जीवपुद्गलद्रव्यम्, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति- यद् द्रव्यं- यद् वस्तु पुरस्कृतभावमिति- पुरः- अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य योग्यमभिमुखमित्यर्थः / पच्छाकडं व भावाओ त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः- पश्चात्कृतभावम्, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भाव:- पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति- यस्मिन् भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, तं होति दव्वदवियं तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं दव्वं ति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं?- भवति द्रव्यम्, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-जह भविओदव्वदेवादि यथेत्युदाहरणोपन्यासार्थ: भव्यो-योग्य: द्रव्यदेवादिरिति, इयमत्र भावना-यो हि पुरुषादिर्मृत्वा देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रोवा स योग्यत्वाद् द्रव्यदेवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, तथाहि- असावपि व्यणुकादिकाययोग्यो भवत्येव, 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्तिः 1429-46 गतिकाय निकायकाय जीवनिकायादिः। भाष्यः 231-233 // 1357 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy