SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1351 // 5. पञ्चममध्ययनं कायोत्सर्गः, नियुक्ति: 1419-27 व्रणदृष्टान्त: सोपनयः। नेतरस्य-तदुद्भवस्येति गाथार्थः॥यद्यस्य यथोद्धियते- उत्तरपरिकर्म क्रियते द्रव्यव्रण एव तदेतदभिधित्सुराह- तणुओ अतिक्खतुंडो इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वग्लग्नम्, उद्धृत्य अवउज्झत्ति सल्लो त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, सल्लो न मलिज्जइ वणो य न च मृद्यते व्रणः, अल्पत्वात् शल्यस्येति गाथार्थः॥प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं- लग्गुद्धियंमि लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन्?- अदूरगते शल्य इति योगः; मनाग दृढलग्न इति भावना, अत्र मलिज्जइ परं ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्द्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः।मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे। रुज्झउ लहुति चिट्ठा वारिज्जइ इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा- परिस्पन्दनादिलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य व्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः॥ रोहेइ वणं छठे इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं- पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं तत्तियमित्तं ति तावन्मानं छिद्यते, सप्तमे शल्य उद्धृते किं?- पूतिमांसादीति गाथार्थः॥ तहविय अठाये ति तथापि च अट्ठायमाणे त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रष्क (रुम्फ) कैवापि क्रियते, तदङ्गछेद: सहास्थिकः, शेषरक्षार्थमिति गाथार्थः / एवं तावद् द्रव्यव्रणस्तच्चिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते___ मुलूत्तरगुणरूवस्स गाहा, इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणा:- प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य समूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः। // 135
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy