________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1501 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 57(58) नमस्कारसहितम्। तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, कम्हा?, जाणगो, तम्हा विदू पमाणं, जाणंतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः / पच्चक्खाणं समत्तं मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातम् / शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः किमिति?, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्तिं यास्यतीति। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः,साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा- सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा- निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यतेच, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यांद्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं कतिविध' मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं- सुत्तं सुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो।सुत्तप्फासियनिजत्तिणया यसमगंतु वच्चंति॥१॥अत्राक्षेपपरिहारौन्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण / तत्रेदं सूत्रं सूरे उग्गए णमोकारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि // सूत्रम् 57 // (58) तस्य शुद्धं भवति, सोऽन्यथा न करोति यस्मात्, कस्मात्?, ज्ञायकः, तस्माद्विदुः प्रमाणम्, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाणम्। 7 सूत्र | सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः / सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव व्रजन्ति // 1 // 8 // 1501 //