________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1485 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1563-65 प्रत्याख्यान भेदाः चैवं मन्यते- जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामो जायते-यदि शीघ्र म्रियेऽहमपुण्यकर्मेति, भोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि। उक्तः श्रावकधर्मः, व्याख्यातंसप्रभेदं देशोत्तरगुणप्रत्याख्यानम्, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तम्, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह नि०- पच्चक्खाणं उत्तरगुणेसुखमणाइयं अणेगविहं / तेण य इहयं पगयं तंपि य इणमो दसविहं तु // 1563 // नि०- अणागयमइक्वंतं कोडियसहिअंनिअंटिअंचेव।सागारमणागारंपरिमाणकडं निरवसेसं // 1564 // नि०-संकेयं चेव अद्धाए, पच्चक्खाणं तु दसविहं / सयमेवणुपालणियं, दाणुवएसेजह समाही // 1565 / / प्रत्याख्यानं प्राग्निरूपितशब्दार्थम्, उत्तरगुणेषु उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाचतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, अनेकविध मित्यनेकप्रकारम्, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे'ति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतं- उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु- मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥ 1563 / / अधुना दशविधमेवोपन्यस्यन्नाह- अणागतं० गाथा, अनागतकरणादनागतम्, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तम्, भावना // 1485 //