SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ६.षष्ठमध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1483 // प्रत्याख्यान:, सूत्रम् 56(57) अणुव्रतकाल: सम्यक्त्वप्रतिमाभेदाः। णीयाविति / आह- अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्त्विति?, अत्रोच्यते, सम्यक्त्वम्, तथा चाह ग्रन्थकारःएतस्स पुणो समणोवासग० अस्य पुनः श्रमणोपासकधर्मस्य, पुनःशब्दोऽवधारणार्थः अस्यैव, शाक्यादिश्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वम्, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तं- द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम्॥१॥ सम्यक्त्वं- प्रशमादिलक्षणम्, उक्तं च- प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व (तत्त्वा० भाष्ये अ०१ सू०२) मिति, कथं पुनरिदं भवत्यत आह- तन्निसगेण तत्- वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीति क्रिया, तत्र निसर्गः- स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च-ऊसरदेस दडिल्लयं च विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदये उवसमसम्म लभति जीवो॥१॥ जीवादीणमधिगमो मिच्छत्तस्स तु खयोवसमभावे। अधिगमसम्म जीवो पावेइ विसुद्धपरिणामो // 2 // त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावरत्नावाप्तिं विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः पञ्चातिचारविसुद्ध मित्यादि सूत्रम्, इदं चसम्यक्त्वं प्राग्निरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुव्रतगुणव्रतानि- प्राग्निरूपितस्वरूपाणि दृढमतिचाररहितान्येवानु (r) ऊषरदेशं दग्धं च विध्यायति वनदवः प्राप्य। एवं मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः॥ 1 // जीवादीनामधिगमो मिथ्यात्वस्य क्षयोपशमभावे। अधिगमसम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः॥ 2 // // 148
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy