________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1482 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 56(57) अणुव्रतकालः सम्यक्त्वप्रतिमाभेदाः। योऽन्यः स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते- परकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, मात्सर्यं इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतम्, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति?, अत्रोच्यते इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाई आवकहियाइं चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थुसम्मत्तं, तंजहा- तंनिसग्गेण वा अभिगमेण वापंचअईयारविसुद्धं अणुव्वयगुणव्वयाइंच अभिग्गहा अन्नेऽविपडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतियासलेहणाझूसणाराहणया, इमीएसमणोवासएणं इमे पञ्च०, तंजहाइहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे॥१३॥सूत्रम्५६॥(५७) अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च- एत्थ पुण समणोवासगधम्मे मूलवत्थु संमत्त मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानी ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या शिक्षापदव्रतानी ति शिक्षा- अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, इत्वराणी ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचर // 1482 //