________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 54(55) पौषधोपवासव्रतविधिः। // 1477 // पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोषधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा- आहारपोषधः आहारः प्रतीत: तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कारपोषधः ब्रह्मचर्यपोषधः, अत्र चरणीयंचवें अवो यदि' त्यस्मादधिकारात् गदमदचरयमश्चानुपसर्गात् (पा०३-१-१००) इति यत्, ब्रह्मकुशलानुष्ठानम्, यथोक्तं-ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् / ब्रह्म च तत् चर्यं चेति समासः शेषं पूर्ववत् / तथा अव्यापारपोषधः। एत्थ पुण भावत्थो एस- आहारपोसधो दुविधो-देसे सव्वे य, देसे अमुगा विगती आयंबिलंवा एक्कसिंवा दोवा,सव्वे चतुविधोऽवि आहारो अहोरत्तं पच्चक्खातो,सरीरपोषधोण्हाणुव्वट्टणवण्णगविलेवणपुप्फगंधतंबोलाणं वत्थाभरणाणंच परिच्चागोय,सोवि देसे सव्वे य,देसे अमुगंसरीरसक्कारं करेमि अमुगं न करेमित्ति,सव्वे अहोरतं, बंभचेरपोषधो देसे सव्वे य, देसे दिवा रत्तिं एक्कसिं दो वा वारेत्ति, सव्वे अहोरत्तिं बंभयारी भवति, अव्वावारे पोसधो दुविहो देसे सव्वे य, देसे अमुगं वावारंण करेमि, सव्वे सयलवावारे हलसगडघरपरक्कमादीओ ण करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा ण वा,जो सव्वपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो णियमा वंचिजति, तं कहिं?, Oअत्र पुनर्भावार्थ एषः- आहारपोषधो द्विविधः- देशतः सर्वतश्च, देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरपोषधः स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धताम्बूलानां वस्त्राभरणानां च परित्यागात, सोऽपि देशतः सर्वतश्च देशतोऽमुकं शरीरसत्कार करोम्यमुकं न करोमि,8 सर्वतोऽहोरात्रम्, ब्रह्मचर्यपोषधो देशतः सर्वतश्च, देशतो दिवा रात्रौ वा एकशो द्विर्वा, सर्वतोऽहोरात्रं ब्रह्मचारी भवति, अव्यापारपोषधो द्विविधो देशतः सर्वतश्च,8 देशतोऽमुकं व्यापार न करोमि सर्वतः सकलव्यापारान् हलशकटगृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा न वा, यः सर्वपोषधं करोति स नियमात् कृतसामायिकः, यदि न करोति तदा नियमावण्यते, तत् क,, // 1477 //