________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1476 // ६.षष्ठमध्ययनं प्रत्याख्यानः, सूत्रम् 54(55) पौषधोपवासव्रतविधिः। मित्यत आह-'देसा- देशावकाशिकस्य-प्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-आनयनप्रयोग: इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परत: स्वयंगमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् विनियोज्य:प्रेष्यस्तस्य प्रयोग: यथाऽभिगृहीतपरविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः / तथा शब्दानुपात: स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवासितकान् बोधयतःशब्दस्यानुपातनं- उच्चारणंताग्येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:- अभिगृहीतदेशाद् बहिःप्रयोजनभावे शब्दमनुच्चारयत एव परेषांसमीपानयनाथस्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीतदेशाद् बहिःप्रयोजनभावे परेषां प्रबोधनाय लेष्टादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यतेमा भू बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, सचस्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन। व्याख्यातं सातिचारं द्वितीयं शिक्षापदव्रतम्, अधुना तृतीयमुच्यते, तत्रेदं सूत्रं पोसहोववासे चउविहे पन्नत्ते, तंजहा-आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्ससमणो० इमे पञ्च०, तंजहा- अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए अपमज्जियदुप्पमज्जियसिज्जासंथारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमज्जियदुप्पमन्जियउच्चारपासवणभूमीओपोसहोववासस्ससम्म अणणुपाल (ण) या॥११॥सूत्रम्५४॥(५५) इह पौषधशब्दो रूढ्या पर्वसुवर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं // 1476 //