SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1475 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 53(54) दिग्व्रतविधिः। कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए। अणवट्ठियं सामइयं अणादरातो न तं सुद्धं // 1 // उक्तं सातिचारं प्रथम शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पञ्च०, तंजहाआणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेव ॥१०॥सूत्रम् 53 // (54) / दिग्व्रतं प्राग् व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुहूर्त्ताधुपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकम्, दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशः- अंशः तस्मिन्नवकाशःगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकम्, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्केपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसङ्केपाभावाभावे वा पृथक्शिक्षापदभावप्रसङ्गादित्यलं विस्तरेण। एत्थ य सप्पदिटुंतं आयरिया पण्णवयंति, जधा सप्पस्स पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेंतेण जोयणे दिट्ठिविसओसे ठवितो, एवं सावओवि दिसिव्वतागारे बहुयं अवरज्झियाउ, पच्छा देसावगासिएणतंपि ओसारेति / अथवा विसदिटुंतो- अगतेण एक्काए अंगुलीए ठवितं, एवं विभासा / इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीय कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया। अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् // 1 // 0 अत्र च सर्पदृष्टान्तमाचार्याः प्रज्ञापयन्ति, यथा पूर्वं तस्य सर्पस्य द्वादश योजनानि विषय आसीत्, पश्चाद्विद्यावादिनाऽपसारयता योजने तस्य दृष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिव्रताकारे बह्वपराद्धवान् पश्चात् देशावकाशिकेन तदप्यपसारयति। अथवा विषदृष्टान्तः- अगदेनैकस्यामङ्गलौ स्थापितम्, एवं विभाषा। // 1475 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy