________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1467 // व्यापादयति कृतसङ्कल्पः, न च तद्व्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, ६.षष्ठमध्ययन सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा- अपध्यानाचरित इति अपध्यानेनाचरित: अपध्यानाचरितः समासः, अप्रशस्त प्रत्याख्यानः, ध्यानं अपध्यानम्, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकम्, प्रमादाचरितः, प्रमादेनाचरित इति विग्रहः, प्रमादस्तु सूत्रम् 51(52) मद्यादिः पञ्चधा, तथा चोक्तं-मज्जं विसयकसाया विकथा णिद्दा य पंचमी भणिया अनर्थदण्डत्वंचास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या अनर्थदण्डभावनीयम्, हिंसाप्रदानं इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाभि व्रतविधिः। भूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, पापकर्मोपदेश: पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा- कृष्यादि कुरुत, तथा चोक्तं- छित्ताणि कसध गोणे दमेध इच्चादि सावगजणस्स। णो कप्पति उवदिसिउं जाणियजिणवयणसारस्स॥१॥ इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-'अणट्ठदंडे त्यादि, अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः नसमाचरितव्याः, तद्यथा-कन्दर्पः- कामः तद्धेतुविशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रोमोहोद्दीपको नर्मेति भावः / इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति णाम हसियव्वं तो ईसिं चेव विहसितव्वंति। कौकुच्यं- कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भाव: कौकुच्यं-अनेकप्रकारा मुखनयनोष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः / एत्थ सामायारी-तारिसगाणि भासितुंण कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वाठातितुन्ति / 1467 // 0क्षेत्राणि कृष गा दमय इत्यादि श्रावकजनस्य / न कल्पते उपदेष्टुं ज्ञातजिनवचनसारस्य ॥१॥ॐ श्रावकस्याट्टहासो न कल्पते, यदि नाम हसितव्यं तर्हि ईषदेव विहसितव्यमिति। 0 अत्र सामाचारी- ताशि भाषितुं न कल्पते यादृशैलॊकस्य हास्यमुत्पद्यते, एवं गत्या स्थानेन वा स्थातुमिति / 8