________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1464 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 50(51) कर्मादानानि। संज्ञानमुपयोगोपधानमिति पर्यायाः, सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्याहारयतीति भावना। तथा सचित्तप्रतिबद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा। तथा अपक्वौषधभक्षणत्वमिदं प्रतीतम्, सचित्तसंमिश्राहार इति वा पाठान्तरम्, सचित्तेन संमिश्र आहार:सचित्तसंमिश्राहारः, वल्ल्यादि पुष्पादिवासंमिश्रम्, तथा दुष्पक्वौषधिभक्षणता दुष्पक्का:अस्विन्ना इत्यर्थस्तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पाच तुष्टिः, बह्विभिरप्यैहिकोऽप्यपायः सम्भाव्यते। एत्थ सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातोखाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कोउएणं पोटें फालावितं केत्तियाओ खइताओ होज्जत्ति, णवरि फेणो अन्नं किंचिणत्थि, एवं भोजन इतिगतम्। अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयम्, इत्यतोऽस्यातिचारानभिधित्सुराह कम्मओ णं समणोवा० इमाइं पन्नरस कम्मादाणाई जा०, तंजहा- इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, __ दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया 7 // सूत्रम् 50 // (51) कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानी 0 अत्र शिम्बाखादक उदाहरणं क्षेत्ररक्षकः शिम्बा: खादति, राजा निर्गच्छति, मध्याह्ने प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता भवेयुरिति, नवरं फेनः, अन्यत्किमपि नास्ति।