SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1463 // ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 49(50) उपभोगादिपरिमाणव्रतविधि: उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्धोग उपयोग:-अशनपानादि, अथवाऽन्तर्भोग: उपभोग:-आहारादि, उपशब्दोऽत्रान्तर्वचन:, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं- उपभोगपरिभोगव्रतम्, एतत् तीर्थकरगणधरैर्द्विविधं प्रज्ञप्तम्, तद्यथेत्युदाहरणोपन्यासार्थः, भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यम्, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः / इह चेयंसामाचारी-भोयणतो सावगो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवनं, तस्स असती अणंतकायबहुबीयगाणि परिहरितव्वाणि, इमंच अण्णं भोयणतो परिहरति-असणे अणंतकायं अल्लगमूलगादिमंसंच, पाणे मंसरसमज्जादि, खादिमे उदुंबरकाउंबरवडपिप्पलपिलंखुमादि, सादिममधुमादि, अचित्तंच आहारेयव्वं, जदा किरण होज्ज अचित्तो तो अस्सग्गेण भत्तं पच्चक्खातितव्वं ण तरति ताधे अववाएण सचित्तं अणंतकायबहुबीयगवलं, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे अच्चंतसावजाणि परिहरिजंति / इदमपिचातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह- 'भोयणतोसमणोवासएण' भोजनतो यद्तमुक्तं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- सचित्ताहारः सचित्तं चेतना O भोजनतः श्रावक उत्सर्गेण प्रासुकमाहारमाहरेत्, तस्मिन्नसति अप्रासुकमपि सचित्तवर्जम्, तस्मिन्नसति अनन्तकायबहुबीजकानि परिहर्त्तव्यानि, इदं चान्यत् भोजनतः परिहरति- अशनेऽनन्तकायं आर्द्रकमूलकादि मांसंच, पाने मांसरसमजादि, खाद्ये उदुम्बरकाकोन्दुम्बरवटपिप्पलप्लक्षादि, स्वाद्ये मध्वादि, अचित्तं चाहर्त्तव्यम्, यदा किल न भवेत् अचित्त उत्सर्गेण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्जम्, कर्मतोऽप्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहियन्ते। // 1463 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy