________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1457 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 46(47 चतुर्थव्रतविधि: सदृष्टान्तः। पुजाणि?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवसं बिइयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो। एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो विउला या पंचलक्खणा भोगा पियसंपयोगाय आसण्णसिद्धिगमणं चेति / इदंचातिचाररहितमनुपालनीयम्, तथा चाह-सदारसंतोसस्स इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा- इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनं- अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनम्, अपरिगृहीताया गमनम् अपरिगृहीतागमनम्, अपरिगृहीता नाम वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च- कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीव्रो मैथुनाध्यवसायाख्यः कामोभण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापिस्वलिङ्गेन आहार्यैः काष्ठफलपुस्तकमृत्तिकाचर्मादिघटितप्रजननैोषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्यं परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेह- पूज्यौ?, ताभ्यां भणितं- आवाभ्यां बाल्ये एकान्तरितं मैथुनं प्रत्याख्यातं, अन्यदाऽऽवयोः कथमपि संयोगो जातः, तच्च विपरीतमापतितम्, यद्दिवसे एकस्य ब्रह्मचर्यपोषधः तद्दिवसे द्वितीयस्य पारणकमेवमावां गृहगतावेव कुमारौ, धिग्जातीयः संबुद्धः / एते ऐहलौकिका गुणाः, परलोके प्रधानपुरुषत्वं देवत्वे प्रधाना अप्सरसो मनुजत्वे प्रधाना मानुष्यो विपुलाश्च पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्चासन्नसिद्धिगमनं च। // 1457 //