________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। // 1454 // वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति / दोसाँपुण तेणाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि वक्तव्याः। उक्तं सातिचारं तृतीयाणुव्रतम्, इदानीं चतुर्थमुपदर्शयन्नाह परदारगमणं समणोपच्चक्खाति सदारसंतोसंवा पडिवाइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा- ओरालियपरदारगमणे वेउव्वियपरदारगमणे, सदारसंतोसस्स समणोवा० इमे पंच०, तंजहा- अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परविवाहकरणे कामभोगतिव्वाभिलासे ४॥सूत्रम् 46 // (47) आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:- कलत्रं परदारास्तस्मिन् (तेषु) गमनं परदारगमनम्, गमनमासेवनरूपतया द्रष्टव्यम्, श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दारा:- स्वकलत्रमित्यर्थः, तेन (तै:)तस्मिन् (तेषु)वा संतोषः स्वदारसंतोषः, तंवा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दः प्रवर्त्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत्, तच्च परदारगमनं द्विविधं प्रज्ञप्तं तद्यथेति पूर्ववत्, औदारिकपरदारगमनं स्त्र्यादिपरदारगमनं वैक्रियपरदारगमनं- देवाङ्गनागमनम्, तथा चउत्थे अणुव्वते सामण्णेण अणियत्तस्स दोसा- मातरमवि गच्छेज्जा, उदाहरणं-गिरिणगरे तिण्णि वयंसियाओ, ताओ उज्जेतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्कीतातो, 0 दोषाः पुनः स्तेनाहृते गृहीते राजाऽपि हन्यात्, स्वामी वा प्रत्यभिजानीयात् ततो दण्डयेत् मारयेद्वा। 0 चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत्, उदाहरणं- गिरिनगरे तिम्रो वयस्याः, ता उज्जयन्तं गताश्चौरैर्गृहीताः, नीत्वा पारसकूले विक्रीताः, 2 // 1454 //