________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1438 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापकः। सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः / मिथ्यात्वदर्शनं तत्स चादिहेतुर्भवगतीनाम् // 2 // तस्मात् मुमुक्षुणा व्यपगतशङ्कन सता जिनवचनं. सत्यमेव सामन्यतः प्रतिपत्तव्यम्, संशयास्पदमपि सत्यम्, सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्स्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन, यदाह- न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति। ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म // 1 // इह चोदाहरणं- जो संकं करेइ सो विणस्सति, जहा सोपेज्जायओ, पेज्जाए मासा जे परिभजमाणा ते छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति- एयाओ, मच्छियाओ संकाए तस्स वग्गुलो वाउ जाओ, मओ य, बिइओ चिंतेइ- न मम माया मच्छिया देइ जीओ, एते दोसा। काङ्क्षणं कासा- सुगतादिप्रणीतदर्शनेषु / ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तं- कंखा अन्नन्नदसणग्गाहोसा पुनर्बिभेदा- देशकाङ्क्षा सर्वकासाच, देशकाझैकदेशविषया, एकमेव सौगतं दर्शनं काङ्गति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकासा तु सर्वदर्शनान्यवकाङ्क्षति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यत: शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्गति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काङ्का न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया Oयः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिभृज्यमानास्ते क्षिप्ताः, अन्धकारे लेखशालाया आगतौ द्वौ पुत्रौ पिबतः, एकश्चिन्तयतिBएता मक्षिकाः, शङ्कया तस्य वल्गुलो वायुर्जातो मृतश्च, द्वितीयश्चिन्तयति- न मह्यं माता मक्षिका दद्यात् जीवितः, एते दोषाः। ॐ अत्रोदाहरणं राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगतौ वनफलानि खादतः, प्रतिनिवृत्तयो राजा -