________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1437 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापकः। अत्राह- इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति?, उच्यते, तेषां तद्भक्तानांच मिथ्यात्वस्थिरीकरणम्, धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं- सव्वे जिणेहिं दुज्जयजियरागदोसमोहेहिं / सत्ताणुकंपणट्ठा दाणं न कहिंचि पडिसिद्धं ॥१॥तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविव्रजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण ।प्रकृतमुच्यते-संमत्तस्स समणोवासएण'मित्यादि सूत्रम्, अस्य व्याख्या सम्यक्त्वस्य प्राग्निरूपितस्वरूपस्य श्रमणोपासकेन- श्रावकेण एते वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परिणाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः / तद्यथे-त्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनंशङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषुमतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति, संशयकरणं शङ्का, सा पुनर्दिभेदादेशशङ्का सर्वशङ्काच, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्खयेयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति / मिथ्यादर्शनं च त्रिविधं- अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह- पयमक्खरंच एवं जो न रोएइ सुत्तनिदिट्ठ। सेसंरोयंतोवि हु मिच्छद्दिट्टी मुणेयव्वो॥१॥ तथा - सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च (जिनाभिहितं)॥१॥ एकस्मिन्नप्यर्थे / O सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहैः। सत्त्वानुकम्पनार्थं दानं न कुत्रापि प्रतिषिद्धम् // 1 // ॐ पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् / शेषं रोचयन्नपि मिथ्यादृष्टितिव्यः // 1 // // 1437 // R