SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 42(43) सम्यक्त्वालापक: वृत्तियुतम् भाग-४ // 1433 // कालादारभ्य, किं न कल्पते?- अन्यतीर्थिकान्- चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि- रुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिगृहीतानि वा(अर्हत्) चैत्यानि- अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा नमस्कर्तुं वा, तत्र वन्दनं- अभिवादनम्, नमस्करणं- प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनम्, को दोषः स्यात्?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्वं- आदौ अनालप्तेन सता अन्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुं वा, तत्र सकृत् सम्भाषणमालपनं पौन:पुन्येन संलपनम्, को दोष: स्यात्?, ते हि तप्ततरायोगोलकल्पा: खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः, अथ च श्रावकस्य स्वजनपरिजनोऽगृहीतसमयसारस्तै: सह सम्बन्धंयायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमंलोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं- द्राक्षापानादि खादिम-त्रपुषफलादि स्वादिम-कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति?, न, अन्यथा राजाभियोगेनेति- राजाभियोगं मुक्त्वा बलाभियोगं मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेण गुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति- राजाभियोगादिना दददपि न धर्ममतिक्रामति। | इह चोदाहरणानि, कहं रायाभिओगेण देंतोणातिचरति धम्मं?, तत्रोदाहरणं- हत्थिणाउरे नयरे जियसत्तू राया, कत्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चइ, तत्थ य परिव्वायगो मासंमासेण खमइ,तं सव्वलोगो O कथं राजाभियोगेन ददन्नातिचरति धर्म हस्तिनापुरे नगरे जितशत्रू राजा, कार्तिकः श्रेष्ठी निगमसहस्रप्रथमासनिकः श्रावकवर्णकः, एवं कालो व्रजति, तत्र चल परिव्राजको मासमासेन क्षपयति, तं सर्वलोक . // 11
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy