________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 939 // | नियुक्तिः 1159-60 दर्शनतीर्थवादः चारित्रपुष्टिः। भगवतीवेत्ता न वाचकः न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव आगमिस्साए त्ति आयत्यामागामिनि काले जिनो भविष्यति तीर्थकरो भविष्यति यतश्चैवमतः समीक्ष्य दृष्ट्वा प्रज्ञया बुद्ध्या दर्शनविपाकं तीर्थकराख्यफलप्रसाधकं वरं खुदंसणन्ति खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, अयं वृत्तार्थः // 1158 // किंच-शक्य एवोपाये प्रेक्षावत: प्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वत: मोक्षोपायत्वे सत्यप्यशक्यासेवनम्, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराध्यमानत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्धंश उपजायते सर्वस्यैवात:। नि०-भट्ठण चरित्ताओ सुट्ठयरं दंसणं गहेयव्वं / सिझंति चरणरहिया दंसणरहिया न सिझंति // 1159 // भ्रष्टेन च्युतेन, कुतः?- चारित्रात्, सुतरां दर्शनं ग्रहीतव्यम्, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात्, तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः- दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणम्, तद्भावभावित्वादित्ययं गाथार्थः // 1159 // इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-न श्रेणिक आसीत्तदा बहुश्रुत इत्यादि, तन्न, तत एवासौ नरकमगमत्, असहायदर्शनयुक्तत्वात्, अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च नि०- दसारसीहस्सयसेणियस्सा, पेढालपुत्तस्सयसच्चइस्स / अणुत्तरादसणसंपया तया, विणा चरित्तेणऽहरंगइंगया॥११६०॥ दशारसिंहस्य अरिष्ठनेमिपितृव्यपुत्रस्य श्रेणिकस्य च प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकिनः अनुत्तरा प्रधाना क्षायिकेति यदुक्तं भवति, का?- दर्शनसम्पत् तदा तस्मिन् काले, तथाऽपि विना चारित्रेण अधरां गतिं गता नरकगतिं प्राप्ता इति // 939 / /