________________ 18 सवा नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 940 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः |1161-63 |दर्शनतीर्थवादः चारित्रपुष्टिः। वृत्तार्थः // 1160 // किंच नि०- सव्वाओवि गईओ अविरहिया नाणदंसणधरेहि। तामा कासिपमायं नाणेण चरित्तरहिएणं // 1161 // सर्वा अपि नारकतिर्यग्नरामरगतयः अविरहिताः अविमुक्ताः, कैः?- ज्ञानदर्शनधरैस्सत्त्वैः, यत:- सर्वास्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नरगतिव्यतिरेकेणान्यासु मुक्तिः,चारित्राभावात्, तस्माच्चारित्रमेव प्रधानं मुक्तिकारणम्, तद्भावभावित्वादिति, यस्मादेवं तं मा कासि पमायं ति तत्-तस्मान्मा कार्षीः प्रमादम्, ज्ञानेन चारित्ररहितेन, तस्येष्टफलासाधकत्वात्, ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः / / 1161 // इतश्च चारित्रमेव प्रधानम्, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह च नि०- सम्मत्तं अचरित्तस्स हुन्ज भयणाइ नियमसो नत्थि। जो पुण चरित्तजुत्तो तस्स उ नियमेण सम्मत्तं // 1162 // सम्यक्त्वं प्राग्वर्णितस्वरूपं अचारित्रस्य चारित्ररहितस्य प्राणिनो भवेत् भजनया विकल्पनया- कदाचिद्भवति कदाचिन्न भवति, नियमशो नास्ति नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात्, यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात्, नियमेन अवश्यतया सम्यक्त्वम्, अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थः॥११६२॥ किं च - नि०-जिणवयणबाहिरा भावणाहिं उव्वट्टणं अयाणंता / नेरइयतिरियएगिदिएहि जह सिज्झई जीवो॥११६३॥ जिनवचनबाह्या यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः भावणाहिं ति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात्, मोक्षमिच्छन्तीति वाक्यशेषः, उद्वर्तनामजानानाः नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्त // 940 //