________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः |1164-65 दर्शनतीर्थवादः चारित्रपुष्टिः। भाग-३ // 941 // नामजानाना इति योगः, इयमत्र भावना- ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित्, चरणाभावात्, तेनानयोः केवलयोरहेतुत्वं मोक्षं प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्वत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कारणवैकल्यं सूचयतीति गाथार्थः॥११६३॥ पुनरपिचारित्रपक्षमेव समर्थयन्नाह नि०- सुट्ठवि सम्मट्ठिी न सिज्झई चरणकरणपरिहीणो।जंचेव सिद्धिमूलं मूढो तं चेव नासेइ // 1164 // सुष्ठपि अतिशयेनापि सम्यग्दृष्टिर्न सिद्ध्यति, किम्भूतः?- चरणकरणपरिहीणः, तद्वादमेव च समर्थयन्, किमिति?-यदेव सिद्धिमूलं यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, एक्कपि असद्दहतो मिच्छंति वचनात्, अथवा सुष्ठपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणः, श्रेणिकादिवत्, किमिति ?- यदेव सिद्धिमूलं- चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः॥११६४॥ किं च- अयं केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः, कस्य तर्हि भवति?, अत आह नि०-दसणपक्खोसावय चरित्तभट्टे य मंदधम्मे य / दसणचरित्तपक्खो समणे परलोगकंखिम्मि॥११६५॥ दर्शनपक्षः श्रावके अप्रत्याख्यानकषायोदयवति भवति चारित्रभ्रष्टे च कस्मिश्चिंदव्यवस्थितपुराणे मन्दधर्मे च पार्श्वस्थादौ, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते? - परलोकाकाङ्क्षिणि, सुसाधावित्यर्थः,प्राकृतशैल्या चेह सप्तमी षष्ठ्यर्थ एव द्रष्टव्या, दर्शनग्रहणाच्च ज्ञानमपि गृहीतमेव द्रष्टव्यम्, अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः॥ 1165 // अपरस्त्वाहयद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न, तस्यैव तद्व्यतिरेकेणा // 941 //