SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1166-68 दर्शनतीर्थवादः चारित्रपुष्टिः // 942 // सम्भवाद्, आह नि०- पारंपरप्पसिद्धी दंसणनाणेहिं होइ चरणस्स / पारंपरप्पसिद्धी जह होइ तहऽन्नपाणाणं // 1166 // पारम्पर्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः-स्वरूपसत्ता, एतदुक्तं भवति-दर्शनाज्ज्ञानम्, ज्ञानाच्चारित्रम्, एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाहपारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोर्लोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थः॥११६६॥आह- यद्येवमतस्तुल्यबलत्वे सति ज्ञानादीनां किमित्यस्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति?, अत्रोच्यते नि०- जम्हा सणनाणा संपुण्णफलं न दिति पत्तेयं / चारित्तजुया दिति उविसिस्सए तेण चारित्तं // 1167 / / यस्माद्दर्शनज्ञाने सम्पूर्णफलं मोक्षलक्षणं न ददतः न प्रयच्छतः प्रत्येकम्, चारित्रयुक्ते दत्ते एव, विशेष्यते तेन चारित्रम्, तस्मिन्सति फलभावादिति गाथार्थः // 1167 // आह-विशिष्यतां चारित्रम्, किन्तु नि०- उज्जममाणस्स गुणा जह हुंति ससत्तिओ तवसुएसुं। एमेव जहासत्ती संजममाणे कहं न गुणा? // 1168 // उज्जममाणस्स त्ति उद्यच्छतः- उद्यमं कुर्वतः साधोः, क्व?- तपःश्रुतयोरिति योगः, गुणाः तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति स्वशक्तितः स्वशक्त्योद्यच्छतः, एवमेव यथाशक्ति शक्त्यनुरूपमित्यर्थः, संजममाणे कहं न गुण त्ति संयच्छमाने- संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणा:?,गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यत इति?, अत्रोच्यते // 942 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy