________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 943 // नि०- अणिगूहतो विरियं न विराहेइ चरणं तवसुएसुं। जइसंजमेऽवि विरियं न निगूहिज्जा न हाविज्जा // 1169 // अनिगूहन् वीर्यं प्रकटयन् सामर्थ्यं यथाशक्त्या, क्व?- तप:श्रुतयोरिति योगः, किं? न विराधयति चरणं न खण्डयति चारित्रं?, यदि संयमेऽपि पृथिव्यादिसंरक्षणादिलक्षणे वीर्यं सामर्थ्यमुपयोगादिरूपतया न निगृहयेत् न प्रच्छादयेन्मातृस्थानेन न हाविज त्ति ततो न हापयेत् संयमन खण्डेत्, स्यादेव संयमगुणा इति गाथार्थः॥११६९॥ नि०-संजमजोएसुसया जे पुण संतविरियाविसीयंति / कहते विसुद्धचरणा बाहिरकरणालसा हुंति ? // 1170 // संयमयोगेषु पृथिव्यादिसंरक्षणादिव्यापारेषु सदा सर्वकालं ये पुनः प्राणिनः संतविरियावि सीयंति त्ति विद्यमानसामर्थ्या अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः?, नैवेत्यर्थः, बाह्यकरणालसाः सन्तः- प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थः ॥११७०॥आह- ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वार्तेति?, उच्यते नि०- आलंबणेण केणइ जे मन्ने संयम पमायति / न हुतं होइ पमाणं भूयत्थगवेसणं कुज्जा // 1171 // आलम्ब्यत इत्यालम्बनं- प्रपततां साधारणस्थानं तेनालम्बनेन केनचित् अव्यवच्छित्त्यादिना ये प्राणिनः मन्य इति एवमहं मन्ये संयम उक्तलक्षणं प्रमादयन्ति परित्यजन्ति, न हु तं होइ पमाणं नैव तदालम्बनमात्रं भवति प्रमाणं- आदेयम्, किन्तु? भूतार्थगवेषणं कुर्यात् तत्त्वार्थान्वेषणं कुर्यात्-किमिदं पुष्टमालम्बनं? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणा इति गाथार्थः॥११७१॥ अपरस्त्वाह- आलम्बनात्को विशेष उपजायते? येन विशुद्धचरणा भवन्तीति, अत्र दृष्टान्तमाह नि०-सालंबणोपडतो अप्पाणंदुग्गमेऽविधारेइ / इय सालंबणसेवा धारेइ जइं असढभावं // 1172 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1169-70 दर्शनतीर्थवादः चारित्रपुष्टिः। नियुक्ति: 1171-72 सालम्बनसेवा। // 943 //