________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 938 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1157-58 दर्शनतीर्थवादः चारित्रपुष्टिः। युज्यते, मोक्षसुखप्राप्तिर्न घटत इत्यर्थः,स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह- यथा ज्ञानपक्षे मार्गज्ञादिभिदृष्टान्तरसहायस्य ज्ञानस्यैहिकामुष्मिकफलासाधकत्वमुक्तम्, एवमत्रापि दर्शनाभिलापेन द्रष्टव्यम्, दिनानंतु प्रदर्श्यते- यथा तीक्ष्णरुचिरपिनरः तीव्रश्रद्धोऽपिपुरुषः, क्व?- गन्तुं देशान्तरं देशान्तरगमन इत्यर्थः, नयविहीनो ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्राप्नोति न तं देश- गन्तुमिष्टं तद्विषयश्रद्धायुक्तोऽपि, नययुक्त एव प्राप्नोति, इय एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तु न प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्राप्नोति, तस्मान्त्रितयं प्रधानम्, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्यम्, त्रितयं चाऽऽत्मनाऽऽसेवनीयम्, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तत्त्वा० अ०१ सू०१) इति वचनादयं गाथात्रितयार्थः॥१-२-३॥ एवमपि तत्त्वे समाख्याते ये खल्वधर्मभूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदभिधित्सुराह नि०-धम्मनियत्तमईया परलोगपरम्मुहा विसयगिद्धा / चरणकरणे असत्ता सेणियरायंववइसंति // 1157 // धर्म:- चारित्रधर्मः परिगृह्यते तस्मान्निवृत्ता मतिर्येषां ते धर्मनिवृत्तमतयः, परः- प्रधानो लोकः परलोको- मोक्षस्तत्परानखाः विषयगृद्धाः शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे अशक्ताः असमर्थाः सन्तः श्रेणिकराजं व्यपदिशन्त्यालम्बनमिति गाथार्थः // 1157 / कथं? नि०-ण सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरोन वायगो।सो आगमिस्साइ जिणो भविस्सइ, समिक्ख पन्नाइ वरं खुदंसणं // 1158 // न श्रेणिकः नरपतिरासीत् तदा तस्मिन् काले बहुश्रुतः बह्वागमः महाकल्पादिश्रुतधर इत्यर्थः, न चापि प्रज्ञप्तिधरः न चापि // 93